(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.195. अध्यायः 195
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रति ब्राह्मणमाहात्म्यप्रतिपादकमण्डूकोपाख्यानकथनारम्भः ॥ 1 ॥ इक्ष्वाकुवंशजेन परीक्षिन्नामकेन राज्ञा मृगयार्थं वनं प्रविष्टेन उदकादर्शनरूपसमयकरणेन मण्डूककन्यायाः परिणयः ॥ 2 ॥ राज्ञा समयातिलङ्घने तथा जले निमज्जनम् ॥ 3 ॥ तदन्वेषणाय राज्ञा मण्डूकहनने तापसरूपिणा मण्डूकराजेन तननिवारणएन तस्याः स्वपुत्रीत्वकथनादिपूर्वकं पुनस्तस्मै तस्याः प्रदानम् ॥ 4 ॥ मार्कण्डेयेन मण्डूकपुन्याः पुत्रयोः शलदलयोर्वृत्तकथनपूर्वकं वामदेवमुनिमाहात्म्यकथनम् ॥ 5 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-195-0x(2402)(23610)
भूय एव ब्राह्मणमाहात्म्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥ 3-195-1(23611)
अथाचष्ट मार्कण्डेयोऽपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम् ॥ 3-195-2(23612)
अयोध्यायामिक्ष्वाकुकुलोद्वहः पार्थिवः परीक्षिन्नाम मृगयामगमत् ॥ 3-195-3(23613)
स एकोऽश्वेन मृगमन्वसरत् मृगो दूरमपाहरत् ॥ 3-195-4(23614)
अध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिन्देशे नीलं गहनं वनषण्डमपश्यत् ॥ 3-195-5(23615)
तस्याविशेषतो वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥ 3-195-6(23616)
अथाश्वस्तः स बिसमृणालमश्वायाग्रतो निक्षिप्य पुष्करिणीतीरे संविवेश ततः शयानो मधुरंगीतमशृणोत् ॥ 3-195-7(23617)
स श्रुत्वाऽचिन्तयन्नेह मनुष्यगतिं पश्यामि कस्य स्वल्वयं गीतंशब्द इति ॥ 3-195-8(23618)
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च अथ सा राज्ञः समीपे पर्यक्रामत् ॥ 3-195-9(23619)
तामब्रवीद्राजा कस्यासि भद्रे का वा त्वमिति सा प्रत्युवाच कन्याऽस्मीति तां राजोवाचार्थी त्वयाऽहमिति ॥ 3-195-10(23620)
अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति राजा तां समयमपृच्छत् मण्डूकराजस्य कः समय इति ततः कन्येदमुवाच नोदकं मे दर्शयितव्यमिति ॥ 3-195-11(23621)
स राजा तां बाढमित्युक्त्वा तां समागम्य तयासह तत्र तस्थौ ॥ 3-195-12(23622)
ततस्तत्रैवासीने राजनि सा सेनाऽन्वगच्छत् ॥ 3-195-13(23623)
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत अथ पर्याश्वस्तश्च राजा तयैव सह शिविकया प्रायादविषादः स्वनगरमनुप्राप्य रहसि तया रममाणो न कांश्चिदपश्यत् ॥ 3-195-14(23624)
अथ प्रधानामात्योऽभ्याशचरास्तस्य स्त्रियोऽपृच्छत् ॥ 3-195-15(23625)
किमत्र प्रयोजनं वर्तते इत्यथाब्रुवंस्ताः स्त्रियः ॥ 3-195-16(23626)
अपूर्वमिव पश्याम उदकं नात्र नीयत इत्यथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुपुष्पफलमूलं तस्य मध्ये मुक्ताजालमयीं पार्श्वे वापीं गूढां सुधोपलिप्तां स रहस्युपगम्य राजानमब्रवीत् ॥ 3-195-17(23627)
वनमिदमुदारमनुदकं साध्वत्र सहैतया गम्यतामिति ॥ 3-195-18(23628)
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्स कदाचित्तस्मिन्कानने रम्ये तयैव स व्यवाहरदथक्षुत्तृष्णार्दितः श्रान्तोऽतिमुक्तागारमपश्यत् ॥ 3-195-19(23629)
तत्प्रविश्यराजा सह प्रियया सुसंस्कृतां विमलां सलिलपूर्णां वापीमपश्त् ॥ 3-195-20(23630)
दृष्ट्वैव च तां तस्याश्च तीरे सहैव तया देव्याऽवातिष्ठत् ॥ 3-195-21(23631)
अथ ता देवीं स राजाऽब्रवीत्साध्ववतर वापीसलिलमिति सा तद्वच श्रुत्वाऽवतीर्य वापीं न्यमज्जन्न पुनरुदकादुदमज्जत् ॥ 3-195-22(23632)
तां स मृगयमाणो राजा नापश्यद्वापीमथ निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा ॥ 3-195-23(23633)
सर्वमण्डूकवधः क्रियतामिति योमयाऽर्थी स मां मृतमण्डूकोपायनमादायोपतिष्ठेदिति ॥ 3-195-24(23634)
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु रमण्डूकान्भयमाविवेश ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥ 3-195-25(23635)
ततो मण्डूकराट् तापसवेषधारी राजानमभ्यगच्छदुपेत्य चैनमुवाच ॥ 3-195-26(23636)
मा राजन्क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति श्लोकौ चात्र भवतः ॥ 3-195-27(23637)
मा मण्डूकाञ्जिघांसीस्त्वं कोपं संधारयाच्युत। प्रक्षिपन्ति वधाद्भेका जनानां परिजानताम् ॥ 3-195-28(23638)
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे। अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥ 3-195-29(23639)
तमेवंवादिनमिष्टजनवियोगशोकपरीतात्मा राजाऽथोवाच ॥ 3-195-30(23640)
न हि क्षम्यते तन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूका नार्हसि विद्वन्मामुपरोद्धुमिति ॥ 3-195-31(23641)
स तद्वाक्यमुपलभ्यव्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता सुशोभना नाम तस्या हि दौःशील्यमेतद्बहवस्तया राजानो विप्रलब्धपूर्वा इति ॥ 3-195-32(23642)
तमब्रवीद्राजा या सा तव रदुहिता तया समर्थी सा मे दीयतामिति ॥ 3-195-33(23643)
अथैनां राज्ञे पिताऽदादब्रवीच्चैनामेनं राजानं शुश्रूषस्वेति ॥ 3-195-34(23644)
स एवमुक्त्वा दुहितरं क्रुद्धः शशाप यस्मात्त्वया राजानो विप्रलब्धा बहवस्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात्तवेति ॥ 3-195-35(23645)
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पसन्दिग्धया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवीदनुगृहीतोस्मीति ॥ 3-195-36(23646)
स च मण्डूकराजो दुहितरमनुज्ञाप्य यथागतमगच्छत् ॥ 3-195-37(23647)
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ 3-195-38(23648)
अथ कदाचिच्छलो मृगयामनुचरन्मृगमासाद्य रथेनान्वधावत् ॥ 3-195-39(23649)
सूतं चोवाच शीघ्रं मां वाहयस्वेति स तथोक्त सूतो राजानमब्रवीत् ॥ 3-195-40(23650)
न क्रियतामनुबन्धो नैष शक्यस्त्वया मृगोऽयं ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ततोऽब्रवीद्राजा सूतमाचक्ष्व मे वाभ्यौ वाजिनौ त्वा पृच्छामीति ॥ स एवमुक्तो राजभयभीतः सूतो वामदेवशापभयभीतश्चास्योपाचख्यौ ॥ वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥ 3-195-41(23651)
अथैनमेवं ब्रुवाणमब्रवीद्राजा वामदेवाश्रमं प्रयादहीति स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् ॥ 3-195-42(23652)
भगवन्मृगो मे विद्धः पलायते संभावयितुमर्हसि वाम्यौ दातुमिति तमब्रवीदृषिर्ददानि ते वाम्यौ कृतकार्येण भवता ममैव वाम्यौ निर्यातयितव्यौ क्षिप्रमिति स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद्वाजियुक्तेन रथेन मृगं प्रति गच्छंश्चाब्रवीत्सूतमश्वरत्नद्वयमावयोर्योग्यं नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥ 3-195-43(23653)
अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न मे वाम्यौ प्रतिनिर्यातयत्यहो कष्टमिति ॥ 3-195-44(23654)
स मनसा विचिन्त्य मासि पूर्णे शिष्यमब्रवीत् ॥ 3-195-45(23655)
गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोगाध्यायवाम्याविति स गत्वैवं तं राजानमब्रवीत्तराजा प्रत्युवाच राज्ञामेतद्वाहनमनर्हा ब्राह्मणा रत्नानामेवंविधानां न किंचित् ब्राह्मणानामश्वैः कार्यं साधु गम्यतामिति ॥ 3-195-46(23656)
स गत्वैतदुपाध्यायायाचष्ट तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयन्न चाददद्राजा ॥ 3-195-47(23657)
वामदेव उवाच। 3-195-48x(2403)
प्रपच्छ वाम्यौ मम पार्थिव त्वं
कृतं हि ते कार्यमाभ्यामशक्यम्।
मा त्वा वधीद्वरुणो घोरपाशै-
र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥ 3-195-48(23658)
राजोवाच। 3-195-49x(2404)
अनड्वाहौ सुव्रतौ साधु दान्ता-
वेतद्विप्राणां वाहनं वामदेव।
ताभ्यां याहि त्वं यत्र कामो महर्षे-
च्छन्दांसि वै त्वादृशं संवहन्ति ॥ 3-195-49(23659)
वामदवे उवाच। 3-195-50x(2405)
छन्दांसि वै मादृशं संवहन्ति
लोकेऽमुष्मिन्पार्थिव यानि सन्ति।
अस्मिस्तु लोके मम यानमेत-
दस्मद्विधानामपरेषां च राजन् ॥ 3-195-50(23660)
राजोवाच। 3-195-51x(2406)
चत्वारस्त्वां वा गर्दभाः संवहन्तु
श्रेष्ठाश्वतर्यो हरयो वातरंहाः।
तैस्त्वं याहि रक्षत्रियस्यैष वाहो
ममैव वाम्यौ न तवैतौ हि विद्धि ॥ 3-195-51(23661)
वामदेव उवाच। 3-195-52x(2407)
घोरं व्रतं ब्राह्मणस्यैतदाहु-
रेतद्राजन्यदिहाजीवमानः।
अयस्मया घोररूपा महान्त-
श्चत्वारो वा यातुधानाः सुरौद्राः।
मया प्रयुक्तास्त्वद्वधमीप्समाना
वहन्तु त्वां शितशूलाश्चतुर्धा ॥ 3-195-52(23662)
राजोवाच। 3-195-53x(2408)
ये त्वां विदुर्ब्राह्मणं वामदेव
वाचा हन्तुं मनसा कर्मणा वा।
ते त्वां सशिष्यमिह पातयन्तु
मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥ 3-195-53(23663)
[वामदेव उवाच। 3-195-54x(2409)
ममैतौ वाम्यौ प्रतिगृह्य राजन्
पुनर्ददानीति प्रपद्य मे त्वम्।
प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ
यद्यात्मानं जीवितुं ते क्षमं स्यात् ॥ 3-195-54(23664)
राजोवाच। 3-195-55x(2410)
न ब्राह्मणेभ्यो मृगया प्रसूता
न त्वाऽनुशास्म्यद्यप्रभृति ह्यसत्यम्।
तवैवाज्ञां संप्रणिधाय सर्वां
तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥] 3-195-55(23665)
वामदेव उवाच। 3-195-56x(2411)
नानुयोगा ब्राह्मणानां भवन्ति
वाचा राजन्मनसा कर्मणा वा।
यस्त्वेवं ब्रह्म तपसाऽन्वेति विद्वां-
स्तेन श्रेष्ठो भवति हि जीवमानः ॥ 3-195-56(23666)
मार्कण्डेय उवाच। 3-195-57x(2412)
एवमुक्ते वामदेवेन राजन्
समुत्तस्थू राक्षसा घोररूपाः।
तैः शूलहस्तैर्वध्यमानः स राजा
प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥ 3-195-57(23667)
इक्ष्वाकवो वा यदि मां त्यजेयु-
र्ये ते विधेया भुवि चान्ये महीपाः।
नोत्स्रक्ष्येऽहं वामदेवस् वाम्यौ
नैवंविधा धर्मशीला भवन्ति ॥ 3-195-58(23668)
एवं ब्रुवन्नेव स यातुधानै-
र्हतो जगामाशु महीं क्षितीशः।
ततो विदित्वा नृपतिं निपातित-
मिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥ 3-195-59(23669)
राज्ये तदा तत्र गत्वा स विप्रः
प्रोवाचेदं वचनं वामदेवः।
दलं राजानं ब्राह्मणानां हि देय-
मेवं राजन्सर्वधर्मेषु दृष्टम् ॥ 3-195-60(23670)
बिभेषि चेत्त्वमधर्मान्नरेन्द्र
प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ।
एतच्छ्रुत्वा वामदेवस् वाक्यं
स पार्थिवः सूतमुवाच रोषात् ॥ 3-195-61(23671)
एकं हि मे सायकं चित्ररूपं
दुग्धं विषेणाहरसंगृहीतम्।
येन विद्धो वामदेवः शयीत
संदश्यमानः श्वभिरार्तरूपः ॥ 3-195-62(23672)
वामदेव उवाच। 3-195-63x(2413)
जानामि पुत्रं दशवर्षं तवाहं
जातं महिष्यां श्येनजितं नरेन्द्र।
एतं जहि त्वं मद्वचनात्प्रणुन्न-
स्तूर्णं प्रियं सायकैर्घोररूपैः ॥ 3-195-63(23673)
मार्कण्डेय उवाच। 3-195-64x(2414)
एवमुक्तो वामदेवेन राजन्न-
न्तःपुरे राजपुत्रं जघान।
स सायकस्तिग्मतेजा विसृष्टः
श्रुत्वा दलस्तत्र वाक्यं बभाषे ॥ 3-195-64(23674)
इक्ष्वाकवो हन्त चरामि वः प्रियं
निहन्मीमं विप्रमद्य प्रमथ्य।
आनीयतामपरस्तिग्मतेजाः
पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥ 3-195-65(23675)
वामदेव उवाच। 3-195-66x(2415)
यत्त्वमेनं सायकं घोररूपं
विषेण दिग्धं मम संदधासि।
न त्वेतं त्वं शरवर्षं विमोक्तुं
संधातुं वा शक्ष्यसे मानवेन्द्र ॥ 3-195-66(23676)
राजोवाच। 3-195-67x(2416)
इक्ष्वाकवः पश्त मां गृहीतं
न वै शक्नोम्येष शरं विमोक्तुम्
न चास्य कर्तुं नाशमभ्युत्सहामि
आयुष्मान्वै जीवतु वामदेवः ॥ 3-195-67(23677)
वैमदेव उवाच। 3-195-68x(2417)
संस्पृश्यैनां महीषीं सायकेन
ततस्तस्मादेनसो मोक्ष्यसे त्वम्।
ततस्तथा कृतवान्पार्थिवस्तु
ततो मुनिं राजपुत्री बभाषे ॥ 3-195-68(23678)
यथा युक्ता वामदेवाहमेनं
दिनेदिने संदिशन्ती नृशंसम्।
ब्राह्मणेभ्यो मृगयती सूनृतानि
तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥ 3-195-69(23679)
वामदेव उवाच। 3-195-70x(2418)
त्वया त्रातं राजकुलं शुभेक्षणे
वरं वृणीष्वाप्रतिमं ददानि ते।
प्रशाधीमं स्वजनं राजपुत्रि
इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥ 3-195-70(23680)
राजपुत्र्युवाच। 3-195-71x(2419)
वरं वृणे भगवंस्त्वेवमेष
विमुच्यतां किल्विषादद्य भर्ता।
शिवेन जीवामि सपुत्रबान्धवं
वरो वृतो ह्येष मया द्विजाग्र्य ॥ 3-195-71(23681)
मार्कण्डेय उवाच। 3-195-72x(2420)
श्रुत्वा वच स मुनी राजपुत्र्या-
स्तथाऽस्त्विति प्राह कुरुप्रवीर।
ततः स राजा मुदितो बभूव
वाम्यौ चास्मै प्रददौ संप्रणम्य ॥ 3-195-72(23682)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-195-7 आश्वस्त इति छेदः ॥ 3-195-16 प्रयोजनं कर्तव्यम् ॥ 3-195-19 अतिमुक्तागारं वासन्तीगृहम् ॥ 3-195-28 प्रक्षीयते धनोद्रेको जनानामविजानताम् इति झ. पाठः। धनोद्रेकः श्रीतपसोरुत्कर्षः ॥ 3-195-29 प्तिजानीहि निश्चयं कुरु। प्राप्य प्रापय्य मृत्युम्। क्रोधं स्त्रीशोकजम्। अलं कृत्वा मा करु ॥ 3-195-35 ब्रह्मण्यं ब्राह्मणहितं तेन रहितानि अब्रह्मण्यानि ॥ 3-195-41 वाम्यौ वामदेवीयौ रथे युक्तौ अश्वौ अश्वतरौ ॥ 3-195-44 पत्रं वाहनम् ॥ 3-195-48 अन्तरे भेदे ॥ 3-195-51 वाहो वाहनम् ॥ 3-195-52 यदेतत् ब्राह्मणस्य स्वं आजीवमान उपजीवमानोसि एतदिह घोरमनिष्टपाकं व्रतं कर्म आहुरित्यन्वयः। वहंतु चतुर्दिक्षु प्रापयन्तु चतुर्धाकृत्वेति शेषः ॥ 3-195-53 त्वां मां हन्तुमुद्युक्तं ते मदीयास्त्वामेव पातयन्त्वित्यर्थः ॥ 3-195-55 असत्यं मिथ्यावादिनमपि त्वा त्वां नानुशास्मि न दण्डयामि। अद्यप्रभृति तवाज्ञामिति संबन्धः। तवापराधान् क्षमिष्ये आज्ञया च वर्तिष्ये इति वरद्वयं ज्ञेयम् ॥ 3-195-56 अनुयोगः शासनम्। अदण्ड्या ब्राह्मणा इत्यर्थः। ब्रह्म ब्राह्मणजातिम्। यो ब्राह्मणसेवी स जीवत्यन्यो नश्यतीत्यर्थः। वरद्वयमपि निरर्थकमिति भावः ॥ 3-195-58 ब्रह्मन्दलो वा विधेया मे यदि चेमे विशोपि इति झ. पाठः। दलः कनिष्ठो भ्राता। रविधेया आज्ञाकारिणः ॥ 3-195-59 निपातितं मृतम् ॥ 3-195-63 एतं जहि तव सायकस्त्वत्पुत्रमेव हिंसिष्यति नतु मामित्यर्थः ॥ 3-195-67 एवमुक्त्वा वामदेवेन स्तम्भितहस्तपादो राजोवाच इक्ष्वाकव इति ॥ 3-195-68 संस्पृश्य हत्वा। एनसो ब्रह्महत्याध्यवसायजात्पापात् ॥ 3-195-69 एनं नृशंसं भर्तारं दिनेदिने सूनृतानि कल्याणकराणि वाक्यानि संदिशन्तीति संबन्धः। ब्रह्मणेभ्यो मृगयती ब्राह्मणान् सेवितुमिच्छन्ती ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.