|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.195. अध्यायः 195
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रति ब्राह्मणमाहात्म्यप्रतिपादकमण्डूकोपाख्यानकथनारम्भः ॥ 1 ॥ इक्ष्वाकुवंशजेन परीक्षिन्नामकेन राज्ञा मृगयार्थं वनं प्रविष्टेन उदकादर्शनरूपसमयकरणेन मण्डूककन्यायाः परिणयः ॥ 2 ॥ राज्ञा समयातिलङ्घने तथा जले निमज्जनम् ॥ 3 ॥ तदन्वेषणाय राज्ञा मण्डूकहनने तापसरूपिणा मण्डूकराजेन तननिवारणएन तस्याः स्वपुत्रीत्वकथनादिपूर्वकं पुनस्तस्मै तस्याः प्रदानम् ॥ 4 ॥ मार्कण्डेयेन मण्डूकपुन्याः पुत्रयोः शलदलयोर्वृत्तकथनपूर्वकं वामदेवमुनिमाहात्म्यकथनम् ॥ 5 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-195-0x(2402)(23610)
भूय एव ब्राह्मणमाहात्म्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥ 3-195-1(23611)
अथाचष्ट मार्कण्डेयोऽपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम् ॥ 3-195-2(23612)
अयोध्यायामिक्ष्वाकुकुलोद्वहः पार्थिवः परीक्षिन्नाम मृगयामगमत् ॥ 3-195-3(23613)
स एकोऽश्वेन मृगमन्वसरत् मृगो दूरमपाहरत् ॥ 3-195-4(23614)
अध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिन्देशे नीलं गहनं वनषण्डमपश्यत् ॥ 3-195-5(23615)
तस्याविशेषतो वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥ 3-195-6(23616)
अथाश्वस्तः स बिसमृणालमश्वायाग्रतो निक्षिप्य पुष्करिणीतीरे संविवेश ततः शयानो मधुरंगीतमशृणोत् ॥ 3-195-7(23617)
स श्रुत्वाऽचिन्तयन्नेह मनुष्यगतिं पश्यामि कस्य स्वल्वयं गीतंशब्द इति ॥ 3-195-8(23618)
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च अथ सा राज्ञः समीपे पर्यक्रामत् ॥ 3-195-9(23619)
तामब्रवीद्राजा कस्यासि भद्रे का वा त्वमिति सा प्रत्युवाच कन्याऽस्मीति तां राजोवाचार्थी त्वयाऽहमिति ॥ 3-195-10(23620)
अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति राजा तां समयमपृच्छत् मण्डूकराजस्य कः समय इति ततः कन्येदमुवाच नोदकं मे दर्शयितव्यमिति ॥ 3-195-11(23621)
स राजा तां बाढमित्युक्त्वा तां समागम्य तयासह तत्र तस्थौ ॥ 3-195-12(23622)
ततस्तत्रैवासीने राजनि सा सेनाऽन्वगच्छत् ॥ 3-195-13(23623)
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत अथ पर्याश्वस्तश्च राजा तयैव सह शिविकया प्रायादविषादः स्वनगरमनुप्राप्य रहसि तया रममाणो न कांश्चिदपश्यत् ॥ 3-195-14(23624)
अथ प्रधानामात्योऽभ्याशचरास्तस्य स्त्रियोऽपृच्छत् ॥ 3-195-15(23625)
किमत्र प्रयोजनं वर्तते इत्यथाब्रुवंस्ताः स्त्रियः ॥ 3-195-16(23626)
अपूर्वमिव पश्याम उदकं नात्र नीयत इत्यथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुपुष्पफलमूलं तस्य मध्ये मुक्ताजालमयीं पार्श्वे वापीं गूढां सुधोपलिप्तां स रहस्युपगम्य राजानमब्रवीत् ॥ 3-195-17(23627)
वनमिदमुदारमनुदकं साध्वत्र सहैतया गम्यतामिति ॥ 3-195-18(23628)
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्स कदाचित्तस्मिन्कानने रम्ये तयैव स व्यवाहरदथक्षुत्तृष्णार्दितः श्रान्तोऽतिमुक्तागारमपश्यत् ॥ 3-195-19(23629)
तत्प्रविश्यराजा सह प्रियया सुसंस्कृतां विमलां सलिलपूर्णां वापीमपश्त् ॥ 3-195-20(23630)
दृष्ट्वैव च तां तस्याश्च तीरे सहैव तया देव्याऽवातिष्ठत् ॥ 3-195-21(23631)
अथ ता देवीं स राजाऽब्रवीत्साध्ववतर वापीसलिलमिति सा तद्वच श्रुत्वाऽवतीर्य वापीं न्यमज्जन्न पुनरुदकादुदमज्जत् ॥ 3-195-22(23632)
तां स मृगयमाणो राजा नापश्यद्वापीमथ निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा ॥ 3-195-23(23633)
सर्वमण्डूकवधः क्रियतामिति योमयाऽर्थी स मां मृतमण्डूकोपायनमादायोपतिष्ठेदिति ॥ 3-195-24(23634)
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु रमण्डूकान्भयमाविवेश ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥ 3-195-25(23635)
ततो मण्डूकराट् तापसवेषधारी राजानमभ्यगच्छदुपेत्य चैनमुवाच ॥ 3-195-26(23636)
मा राजन्क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति श्लोकौ चात्र भवतः ॥ 3-195-27(23637)
मा मण्डूकाञ्जिघांसीस्त्वं कोपं संधारयाच्युत। प्रक्षिपन्ति वधाद्भेका जनानां परिजानताम् ॥ 3-195-28(23638)
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे। अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥ 3-195-29(23639)
तमेवंवादिनमिष्टजनवियोगशोकपरीतात्मा राजाऽथोवाच ॥ 3-195-30(23640)
न हि क्षम्यते तन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूका नार्हसि विद्वन्मामुपरोद्धुमिति ॥ 3-195-31(23641)
स तद्वाक्यमुपलभ्यव्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता सुशोभना नाम तस्या हि दौःशील्यमेतद्बहवस्तया राजानो विप्रलब्धपूर्वा इति ॥ 3-195-32(23642)
तमब्रवीद्राजा या सा तव रदुहिता तया समर्थी सा मे दीयतामिति ॥ 3-195-33(23643)
अथैनां राज्ञे पिताऽदादब्रवीच्चैनामेनं राजानं शुश्रूषस्वेति ॥ 3-195-34(23644)
स एवमुक्त्वा दुहितरं क्रुद्धः शशाप यस्मात्त्वया राजानो विप्रलब्धा बहवस्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात्तवेति ॥ 3-195-35(23645)
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पसन्दिग्धया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवीदनुगृहीतोस्मीति ॥ 3-195-36(23646)
स च मण्डूकराजो दुहितरमनुज्ञाप्य यथागतमगच्छत् ॥ 3-195-37(23647)
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ 3-195-38(23648)
अथ कदाचिच्छलो मृगयामनुचरन्मृगमासाद्य रथेनान्वधावत् ॥ 3-195-39(23649)
सूतं चोवाच शीघ्रं मां वाहयस्वेति स तथोक्त सूतो राजानमब्रवीत् ॥ 3-195-40(23650)
न क्रियतामनुबन्धो नैष शक्यस्त्वया मृगोऽयं ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ततोऽब्रवीद्राजा सूतमाचक्ष्व मे वाभ्यौ वाजिनौ त्वा पृच्छामीति ॥ स एवमुक्तो राजभयभीतः सूतो वामदेवशापभयभीतश्चास्योपाचख्यौ ॥ वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥ 3-195-41(23651)
अथैनमेवं ब्रुवाणमब्रवीद्राजा वामदेवाश्रमं प्रयादहीति स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् ॥ 3-195-42(23652)
भगवन्मृगो मे विद्धः पलायते संभावयितुमर्हसि वाम्यौ दातुमिति तमब्रवीदृषिर्ददानि ते वाम्यौ कृतकार्येण भवता ममैव वाम्यौ निर्यातयितव्यौ क्षिप्रमिति स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद्वाजियुक्तेन रथेन मृगं प्रति गच्छंश्चाब्रवीत्सूतमश्वरत्नद्वयमावयोर्योग्यं नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥ 3-195-43(23653)
अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न मे वाम्यौ प्रतिनिर्यातयत्यहो कष्टमिति ॥ 3-195-44(23654)
स मनसा विचिन्त्य मासि पूर्णे शिष्यमब्रवीत् ॥ 3-195-45(23655)
गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोगाध्यायवाम्याविति स गत्वैवं तं राजानमब्रवीत्तराजा प्रत्युवाच राज्ञामेतद्वाहनमनर्हा ब्राह्मणा रत्नानामेवंविधानां न किंचित् ब्राह्मणानामश्वैः कार्यं साधु गम्यतामिति ॥ 3-195-46(23656)
स गत्वैतदुपाध्यायायाचष्ट तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयन्न चाददद्राजा ॥ 3-195-47(23657)
वामदेव उवाच। 3-195-48x(2403)
प्रपच्छ वाम्यौ मम पार्थिव त्वं
कृतं हि ते कार्यमाभ्यामशक्यम्।
मा त्वा वधीद्वरुणो घोरपाशै-
र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥ 3-195-48(23658)
राजोवाच। 3-195-49x(2404)
अनड्वाहौ सुव्रतौ साधु दान्ता-
वेतद्विप्राणां वाहनं वामदेव।
ताभ्यां याहि त्वं यत्र कामो महर्षे-
च्छन्दांसि वै त्वादृशं संवहन्ति ॥ 3-195-49(23659)
वामदवे उवाच। 3-195-50x(2405)
छन्दांसि वै मादृशं संवहन्ति
लोकेऽमुष्मिन्पार्थिव यानि सन्ति।
अस्मिस्तु लोके मम यानमेत-
दस्मद्विधानामपरेषां च राजन् ॥ 3-195-50(23660)
राजोवाच। 3-195-51x(2406)
चत्वारस्त्वां वा गर्दभाः संवहन्तु
श्रेष्ठाश्वतर्यो हरयो वातरंहाः।
तैस्त्वं याहि रक्षत्रियस्यैष वाहो
ममैव वाम्यौ न तवैतौ हि विद्धि ॥ 3-195-51(23661)
वामदेव उवाच। 3-195-52x(2407)
घोरं व्रतं ब्राह्मणस्यैतदाहु-
रेतद्राजन्यदिहाजीवमानः।
अयस्मया घोररूपा महान्त-
श्चत्वारो वा यातुधानाः सुरौद्राः।
मया प्रयुक्तास्त्वद्वधमीप्समाना
वहन्तु त्वां शितशूलाश्चतुर्धा ॥ 3-195-52(23662)
राजोवाच। 3-195-53x(2408)
ये त्वां विदुर्ब्राह्मणं वामदेव
वाचा हन्तुं मनसा कर्मणा वा।
ते त्वां सशिष्यमिह पातयन्तु
मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥ 3-195-53(23663)
[वामदेव उवाच। 3-195-54x(2409)
ममैतौ वाम्यौ प्रतिगृह्य राजन्
पुनर्ददानीति प्रपद्य मे त्वम्।
प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ
यद्यात्मानं जीवितुं ते क्षमं स्यात् ॥ 3-195-54(23664)
राजोवाच। 3-195-55x(2410)
न ब्राह्मणेभ्यो मृगया प्रसूता
न त्वाऽनुशास्म्यद्यप्रभृति ह्यसत्यम्।
तवैवाज्ञां संप्रणिधाय सर्वां
तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥] 3-195-55(23665)
वामदेव उवाच। 3-195-56x(2411)
नानुयोगा ब्राह्मणानां भवन्ति
वाचा राजन्मनसा कर्मणा वा।
यस्त्वेवं ब्रह्म तपसाऽन्वेति विद्वां-
स्तेन श्रेष्ठो भवति हि जीवमानः ॥ 3-195-56(23666)
मार्कण्डेय उवाच। 3-195-57x(2412)
एवमुक्ते वामदेवेन राजन्
समुत्तस्थू राक्षसा घोररूपाः।
तैः शूलहस्तैर्वध्यमानः स राजा
प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥ 3-195-57(23667)
इक्ष्वाकवो वा यदि मां त्यजेयु-
र्ये ते विधेया भुवि चान्ये महीपाः।
नोत्स्रक्ष्येऽहं वामदेवस् वाम्यौ
नैवंविधा धर्मशीला भवन्ति ॥ 3-195-58(23668)
एवं ब्रुवन्नेव स यातुधानै-
र्हतो जगामाशु महीं क्षितीशः।
ततो विदित्वा नृपतिं निपातित-
मिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥ 3-195-59(23669)
राज्ये तदा तत्र गत्वा स विप्रः
प्रोवाचेदं वचनं वामदेवः।
दलं राजानं ब्राह्मणानां हि देय-
मेवं राजन्सर्वधर्मेषु दृष्टम् ॥ 3-195-60(23670)
बिभेषि चेत्त्वमधर्मान्नरेन्द्र
प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ।
एतच्छ्रुत्वा वामदेवस् वाक्यं
स पार्थिवः सूतमुवाच रोषात् ॥ 3-195-61(23671)
एकं हि मे सायकं चित्ररूपं
दुग्धं विषेणाहरसंगृहीतम्।
येन विद्धो वामदेवः शयीत
संदश्यमानः श्वभिरार्तरूपः ॥ 3-195-62(23672)
वामदेव उवाच। 3-195-63x(2413)
जानामि पुत्रं दशवर्षं तवाहं
जातं महिष्यां श्येनजितं नरेन्द्र।
एतं जहि त्वं मद्वचनात्प्रणुन्न-
स्तूर्णं प्रियं सायकैर्घोररूपैः ॥ 3-195-63(23673)
मार्कण्डेय उवाच। 3-195-64x(2414)
एवमुक्तो वामदेवेन राजन्न-
न्तःपुरे राजपुत्रं जघान।
स सायकस्तिग्मतेजा विसृष्टः
श्रुत्वा दलस्तत्र वाक्यं बभाषे ॥ 3-195-64(23674)
इक्ष्वाकवो हन्त चरामि वः प्रियं
निहन्मीमं विप्रमद्य प्रमथ्य।
आनीयतामपरस्तिग्मतेजाः
पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥ 3-195-65(23675)
वामदेव उवाच। 3-195-66x(2415)
यत्त्वमेनं सायकं घोररूपं
विषेण दिग्धं मम संदधासि।
न त्वेतं त्वं शरवर्षं विमोक्तुं
संधातुं वा शक्ष्यसे मानवेन्द्र ॥ 3-195-66(23676)
राजोवाच। 3-195-67x(2416)
इक्ष्वाकवः पश्त मां गृहीतं
न वै शक्नोम्येष शरं विमोक्तुम्
न चास्य कर्तुं नाशमभ्युत्सहामि
आयुष्मान्वै जीवतु वामदेवः ॥ 3-195-67(23677)
वैमदेव उवाच। 3-195-68x(2417)
संस्पृश्यैनां महीषीं सायकेन
ततस्तस्मादेनसो मोक्ष्यसे त्वम्।
ततस्तथा कृतवान्पार्थिवस्तु
ततो मुनिं राजपुत्री बभाषे ॥ 3-195-68(23678)
यथा युक्ता वामदेवाहमेनं
दिनेदिने संदिशन्ती नृशंसम्।
ब्राह्मणेभ्यो मृगयती सूनृतानि
तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥ 3-195-69(23679)
वामदेव उवाच। 3-195-70x(2418)
त्वया त्रातं राजकुलं शुभेक्षणे
वरं वृणीष्वाप्रतिमं ददानि ते।
प्रशाधीमं स्वजनं राजपुत्रि
इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥ 3-195-70(23680)
राजपुत्र्युवाच। 3-195-71x(2419)
वरं वृणे भगवंस्त्वेवमेष
विमुच्यतां किल्विषादद्य भर्ता।
शिवेन जीवामि सपुत्रबान्धवं
वरो वृतो ह्येष मया द्विजाग्र्य ॥ 3-195-71(23681)
मार्कण्डेय उवाच। 3-195-72x(2420)
श्रुत्वा वच स मुनी राजपुत्र्या-
स्तथाऽस्त्विति प्राह कुरुप्रवीर।
ततः स राजा मुदितो बभूव
वाम्यौ चास्मै प्रददौ संप्रणम्य ॥ 3-195-72(23682)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-195-7 आश्वस्त इति छेदः ॥ 3-195-16 प्रयोजनं कर्तव्यम् ॥ 3-195-19 अतिमुक्तागारं वासन्तीगृहम् ॥ 3-195-28 प्रक्षीयते धनोद्रेको जनानामविजानताम् इति झ. पाठः। धनोद्रेकः श्रीतपसोरुत्कर्षः ॥ 3-195-29 प्तिजानीहि निश्चयं कुरु। प्राप्य प्रापय्य मृत्युम्। क्रोधं स्त्रीशोकजम्। अलं कृत्वा मा करु ॥ 3-195-35 ब्रह्मण्यं ब्राह्मणहितं तेन रहितानि अब्रह्मण्यानि ॥ 3-195-41 वाम्यौ वामदेवीयौ रथे युक्तौ अश्वौ अश्वतरौ ॥ 3-195-44 पत्रं वाहनम् ॥ 3-195-48 अन्तरे भेदे ॥ 3-195-51 वाहो वाहनम् ॥ 3-195-52 यदेतत् ब्राह्मणस्य स्वं आजीवमान उपजीवमानोसि एतदिह घोरमनिष्टपाकं व्रतं कर्म आहुरित्यन्वयः। वहंतु चतुर्दिक्षु प्रापयन्तु चतुर्धाकृत्वेति शेषः ॥ 3-195-53 त्वां मां हन्तुमुद्युक्तं ते मदीयास्त्वामेव पातयन्त्वित्यर्थः ॥ 3-195-55 असत्यं मिथ्यावादिनमपि त्वा त्वां नानुशास्मि न दण्डयामि। अद्यप्रभृति तवाज्ञामिति संबन्धः। तवापराधान् क्षमिष्ये आज्ञया च वर्तिष्ये इति वरद्वयं ज्ञेयम् ॥ 3-195-56 अनुयोगः शासनम्। अदण्ड्या ब्राह्मणा इत्यर्थः। ब्रह्म ब्राह्मणजातिम्। यो ब्राह्मणसेवी स जीवत्यन्यो नश्यतीत्यर्थः। वरद्वयमपि निरर्थकमिति भावः ॥ 3-195-58 ब्रह्मन्दलो वा विधेया मे यदि चेमे विशोपि इति झ. पाठः। दलः कनिष्ठो भ्राता। रविधेया आज्ञाकारिणः ॥ 3-195-59 निपातितं मृतम् ॥ 3-195-63 एतं जहि तव सायकस्त्वत्पुत्रमेव हिंसिष्यति नतु मामित्यर्थः ॥ 3-195-67 एवमुक्त्वा वामदेवेन स्तम्भितहस्तपादो राजोवाच इक्ष्वाकव इति ॥ 3-195-68 संस्पृश्य हत्वा। एनसो ब्रह्महत्याध्यवसायजात्पापात् ॥ 3-195-69 एनं नृशंसं भर्तारं दिनेदिने सूनृतानि कल्याणकराणि वाक्यानि संदिशन्तीति संबन्धः। ब्रह्मणेभ्यो मृगयती ब्राह्मणान् सेवितुमिच्छन्ती ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|